|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.192. अध्यायः 192
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
लोमशेन धर्मरहस्यकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[लोमश उवाच।
परदारेषु ये सक्ता अकृत्वा दारसङ्ग्रहम्।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै॥ 13-192-1(88987)
परदाररतिर्यश्च यश्च वन्ध्यामुपासते।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते॥ 13-192-2(88988)
असम्भाष्या भवन्त्येते पितॄणां नात्र संशयः।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः॥ 13-192-3(88989)
तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम्।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता॥ 13-192-4(88990)
श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम्।
श्रद्दधानेन कर्तव्यं गुरुणां वचनं सदा॥ 13-192-5(88991)
द्वादश्यां पौर्णमास्यां च मासिमासि घृताक्षतम्।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत॥ 13-192-6(88992)
सोमश्च वर्धते तेन समुद्रश्च महोदधिः।
अश्वमेधचतुर्भागं फलं सृजति वासवः॥ 13-192-7(88993)
दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः।
प्रीतश्च भगवान्सोम इष्टान्कामान्प्रयच्छति॥ 13-192-8(88994)
श्रूयतां चापरो धर्मः सरहस्यो महाफलः।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः॥ 13-192-9(88995)
कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः॥ 13-192-10(88996)
तिलोदकं च यो दद्यात्पितॄणां मधुना सह।
दीपकं कृसंर चैव श्रूयतां तस्य यत्फलम्॥ 13-192-11(88997)
तिलपात्रे फलं प्राह भगवान्पाकशांसनः।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम्॥ 13-192-12(88998)
अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम्।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः॥ 13-192-13(88999)
तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम्।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः॥ 13-192-14(89000)
स्वर्गे च पितृलोके च पितृदेवाभिपूजितम्।
एवमेतन्मयोद्दिष्टपिदृष्टं पुरातनम्॥] ॥ 13-192-15(89001)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवत्यधिकशततमोऽध्यायः॥ 192 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-192-7 महान्त्युदकानि धीयन्तेऽस्मिन्निति। यद्वा महानामुत्सवानामुदधिरिव॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|